ऋग्वेद · अध्याय 10.031
आ नो देवानाम् उप वेतु शंसो विश्वेभिस् तुरैर् अवसे यजत्रः ।
तेभिर् वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
परि चिन् मर्तो द्रविणम् ममन्याद् ऋतस्य पथा नमसा विवासेत् ।
उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षम् मनसा जगृभ्यात् ॥
अधायि धीतिर् अससृग्रम् अंशास् तीर्थे न दस्मम् उप यन्त्य् ऊमाः ।
अभ्य् आनश्म सुवितस्य शूषं नवेदसो अमृतानाम् अभूम ॥
नित्यश् चाकन्यात् स्वपतिर् दमूना यस्मा उ देवः सविता जजान ।
भगो वा गोभिर् अर्यमेम् अनज्यात् सो अस्मै चारुश् छदयद् उत स्यात् ॥
इयं सा भूया उषसाम् इव क्षा यद् ध क्षुमन्तः शवसा समायन् ।
अस्य स्तुतिं जरितुर् भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥
अस्येद् एषा सुमतिः पप्रथानाभवत् पूर्व्या भूमना गौः ।
अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥
किं स्विद् वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
संतस्थाने अजरे इतऊती अहानि पूर्वीर् उषसो जरन्त ॥
नैतावद् एना परो अन्यद् अस्त्य् उक्षा स द्यावापृथिवी बिभर्ति ।
त्वचम् पवित्रं कृणुत स्वधावान् यद् ईं सूर्यं न हरितो वहन्ति ॥
स्तेगो न क्षाम् अत्य् एति पृथ्वीम् मिहं न वातो वि ह वाति भूम ।
मित्रो यत्र वरुणो अज्यमानो ऽग्निर् वने न व्य् असृष्ट शोकम् ॥
स्तरीर् यत् सूत सद्यो अज्यमाना व्यथिर् अव्यथीः कृणुत स्वगोपा ।
पुत्रो यत् पूर्वः पित्रोर् जनिष्ट शम्यां गौर् जगार यद् ध पृच्छान् ॥
उत कण्वं नृषदः पुत्रम् आहुर् उत श्यावो धनम् आदत्त वाजी ।
प्र कृष्णाय रुशद् अपिन्वतोधर् ऋतम् अत्र नकिर् अस्मा अपीपेत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0