ऋग्वेद · अध्याय 10.030
प्र देवत्रा ब्रह्मणे गातुर् एत्व् अपो अच्छा मनसो न प्रयुक्ति ।
महीम् मित्रस्य वरुणस्य धासिम् पृथुज्रयसे रीरधा सुवृक्तिम् ॥
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीर् उशन्तः ।
अव याश् चष्टे अरुणः सुपर्णस् तम् आस्यध्वम् ऊर्मिम् अद्या सुहस्ताः ॥
अध्वर्यवो ऽप इता समुद्रम् अपां नपातं हविषा यजध्वम् ।
स वो ददद् ऊर्मिम् अद्या सुपूतं तस्मै सोमम् मधुमन्तं सुनोत ॥
यो अनिध्मो दीदयद् अप्स्व् अ1न्तर् यं विप्रास ईळते अध्वरेषु ।
अपां नपान् मधुमतीर् अपो दा याभिर् इन्द्रो वावृधे वीर्याय ॥
याभिः सोमो मोदते हर्षते च कल्याणीभिर् युवतिभिर् न मर्यः ।
ता अध्वर्यो अपो अच्छा परेहि यद् आसिञ्चा ओषधीभिः पुनीतात् ॥
एवेद् यूने युवतयो नमन्त यद् ईम् उशन्न् उशतीर् एत्य् अच्छ ।
सं जानते मनसा सं चिकित्रे ऽध्वर्यवो धिषणापश् च देवीः ॥
यो वो वृताभ्यो अकृणोद् उ लोकं यो वो मह्या अभिशस्तेर् अमुञ्चत् ।
तस्मा इन्द्राय मधुमन्तम् ऊर्मिं देवमादनम् प्र हिणोतनापः ॥
प्रास्मै हिनोत मधुमन्तम् ऊर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः ।
घृतपृष्ठम् ईड्यम् अध्वरेष्व् आपो रेवतीः शृणुता हवम् मे ॥
तं सिन्धवो मत्सरम् इन्द्रपानम् ऊर्मिम् प्र हेत य उभे इयर्ति ।
मदच्युतम् औशानं नभोजाम् परि त्रितन्तुं विचरन्तम् उत्सम् ॥
आवर्वृततीर् अध नु द्विधारा गोषुयुधो न नियवं चरन्तीः ।
ऋषे जनित्रीर् भुवनस्य पत्नीर् अपो वन्दस्व सवृधः सयोनीः ॥
हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् ।
ऋतस्य योगे वि ष्यध्वम् ऊधः श्रुष्टीवरीर् भूतनास्मभ्यम् आपः ॥
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रम् बिभृथामृतं च ।
रायश् च स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गृणते वयो धात् ॥
प्रति यद् आपो अदृश्रम् आयतीर् घृतम् पयांसि बिभ्रतीर् मधूनि ।
अध्वर्युभिर् मनसा संविदाना इन्द्राय सोमं सुषुतम् भरन्तीः ॥
एमा अग्मन् रेवतीर् जीवधन्या अध्वर्यवः सादयता सखायः ।
नि बर्हिषि धत्तन सोम्यासो ऽपां नप्त्रा संविदानास एनाः ॥
आग्मन्न् आप उशतीर् बर्हिर् एदं न्य् अध्वरे असदन् देवयन्तीः ।
अध्वर्यवः सुनुतेन्द्राय सोमम् अभूद् उ वः सुशका देवयज्या ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0