भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.029

10.029.01

वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः ।
यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥

10.029.02

प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ॥

10.029.03

कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उ1ग्रो वि धाव ।
कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ॥

10.029.04

कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ॥

10.029.05

प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ॥

10.029.06

मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन ।
वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ॥

10.029.07

आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः ।
स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् च ॥

10.029.08

व्य् आनळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc