भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.027

10.027.01

असत् सु मे जरितः साभिवेगो यत् सुन्वते यजमानाय शिक्षम् ।
अनाशीर्दाम् अहम् अस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तम् आभुम् ॥

10.027.02

यदीद् अहं युधये संनयान्य् अदेवयून् तन्वा3 शूशुजानान् ।
अमा ते तुम्रं वृषभम् पचानि तीव्रं सुतम् पञ्चदशं नि षिञ्चम् ॥

10.027.03

नाहं तं वेद य इति ब्रवीत्य् अदेवयून् समरणे जघन्वान् ।
यदावाख्यत् समरणम् ऋघावद् आद् इद् ध मे वृषभा प्र ब्रुवन्ति ॥

10.027.04

यद् अज्ञातेषु वृजनेष्व् आसं विश्वे सतो मघवानो म आसन् ।
जिनामि वेत् क्षेम आ सन्तम् आभुम् प्र तं क्षिणाम् पर्वते पादगृह्य ॥

10.027.05

न वा उ मां वृजने वारयन्ते न पर्वतासो यद् अहम् मनस्ये ।
मम स्वनात् कृधुकर्णो भयात एवेद् अनु द्यून् किरणः सम् एजात् ॥

10.027.06

दर्शन् न्व् अत्र शृतपाँ अनिन्द्रान् बाहुक्षदः शरवे पत्यमानान् ।
घृषुं वा ये निनिदुः सखायम् अध्य् ऊ न्व् एषु पवयो ववृत्युः ॥

10.027.07

अभूर् व् औक्षीर् व्य् उ1 आयुर् आनड् दर्षन् नु पूर्वो अपरो नु दर्षत् ।
द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥

10.027.08

गावो यवम् प्रयुता अर्यो अक्षन् ता अपश्यं सहगोपाश् चरन्तीः ।
हवा इद् अर्यो अभितः सम् आयन् कियद् आसु स्वपतिश् छन्दयाते ॥

10.027.09

सं यद् वयं यवसादो जनानाम् अहं यवाद उर्वज्रे अन्तः ।
अत्रा युक्तो ऽवसातारम् इच्छाद् अथो अयुक्तं युनजद् ववन्वान् ॥

10.027.10

अत्रेद् उ मे मंससे सत्यम् उक्तं द्विपाच् च यच् चतुष्पात् संसृजानि ।
स्त्रीभिर् यो अत्र वृषणम् पृतन्याद् अयुद्धो अस्य वि भजानि वेदः ॥

10.027.11

यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वाँ अभि मन्याते अन्धाम् ।
कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ॥

10.027.12

कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।
भद्रा वधूर् भवति यत् सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥

10.027.13

पत्तो जगार प्रत्यञ्चम् अत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् ।
आसीन ऊर्ध्वाम् उपसि क्षिणाति न्यङ्ङ् उत्तानाम् अन्व् एति भूमिम् ॥

10.027.14

बृहन्न् अच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।
अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुर् ऊधः ॥

10.027.15

सप्त वीरासो अधराद् उद् आयन्न् अष्टोत्तरात्तात् सम् अजग्मिरन् ते ।
नव पश्चातात् स्थिविमन्त आयन् दश प्राक् सानु वि तिरन्त्य् अश्नः ॥

10.027.16

दशानाम् एकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय ।
गर्भम् माता सुधितं वक्षणास्व् अवेनन्तं तुषयन्ती बिभर्ति ॥

10.027.17

पीवानम् मेषम् अपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् ।
द्वा धनुम् बृहतीम् अप्स्व् अ1न्तः पवित्रवन्ता चरतः पुनन्ता ॥

10.027.18

वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः ।
अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ॥

10.027.19

अपश्यं ग्रामं वहमानम् आराद् अचक्रया स्वधया वर्तमानम् ।
सिषक्त्य् अर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥

10.027.20

एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि ।
आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ॥

10.027.21

अयं यो वज्रः पुरुधा विवृत्तो ऽवः सूर्यस्य बृहतः पुरीषात् ।
श्रव इद् एना परो अन्यद् अस्ति तद् अव्यथी जरिमाणस् तरन्ति ॥

10.027.22

वृक्षे-वृक्षे नियता मीमयद् गौस् ततो वयः प्र पतान् पूरुषादः ।
अथेदं विश्वम् भुवनम् भयात इन्द्राय सुन्वद् ऋषये च शिक्षत् ॥

10.027.23

देवानाम् माने प्रथमा अतिष्ठन् कृन्तत्राद् एषाम् उपरा उद् आयन् ।
त्रयस् तपन्ति पृथिवीम् अनूपा द्वा बृबूकं वहतः पुरीषम् ॥

10.027.24

सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये ।
आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc