ऋग्वेद · अध्याय 10.028
विश्वो ह्य् अ1न्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम ।
जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ॥
स रोरुवद् वृषभस् तिग्मशृङ्गो वर्ष्मन् तस्थौ वरिमन्न् आ पृथिव्याः ।
विश्वेष्व् एनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
अद्रिणा ते मन्दिन इन्द्र तूयान् सुन्वन्ति सोमान् पिबसि त्वम् एषाम् ।
पचन्ति ते वृषभाँ अत्सि तेषाम् पृक्षेण यन् मघवन् हूयमानः ॥
इदं सु मे जरितर् आ चिकिद्धि प्रतीपं शापं नद्यो वहन्ति ।
लोपाशः सिंहम् प्रत्यञ्चम् अत्साः क्रोष्टा वराहं निर् अतक्त कक्षात् ॥
कथा त एतद् अहम् आ चिकेतं गृत्सस्य पाकस् तवसो मनीषाम् ।
त्वं नो विद्वाँ ऋतुथा वि वोचो यम् अर्धं ते मघवन् क्षेम्या धूः ॥
एवा हि मां तवसं वर्धयन्ति दिवश् चिन् मे बृहत उत्तरा धूः ।
पुरू सहस्रा नि शिशामि साकम् अशत्रुं हि मा जनिता जजान ॥
एवा हि मां तवसं जज्ञुर् उग्रं कर्मन्-कर्मन् वृषणम् इन्द्र देवाः ।
वधीं वृत्रं वज्रेण मन्दसानो ऽप व्रजम् महिना दाशुषे वम् ॥
देवास आयन् परशूँर् अबिभ्रन् वना वृश्चन्तो अभि विड्भिर् आयन् ।
नि सुद्र्व1ं दधतो वक्षणासु यत्रा कृपीटम् अनु तद् दहन्ति ॥
शशः क्षुरम् प्रत्यञ्चं जगाराद्रिं लोगेन व्य् अभेदम् आरात् ।
बृहन्तं चिद् ऋहते रन्धयानि वयद् वत्सो वृषभं शूशुवानः ॥
सुपर्ण इत्था नखम् आ सिषायावरुद्धः परिपदं न सिंहः ।
निरुद्धश् चिन् महिषस् तर्ष्यावान् गोधा तस्मा अयथं कर्षद् एतत् ॥
तेभ्यो गोधा अयथं कर्षद् एतद् ये ब्रह्मणः प्रतिपीयन्त्य् अन्नैः ।
सिम उक्ष्णो ऽवसृष्टाँ अदन्ति स्वयम् बलानि तन्वः शृणानाः ॥
एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्व1ः सोम उक्थैः ।
नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0