ऋग्वेद · अध्याय 10.026
प्र ह्य् अच्छा मनीषाः स्पार्हा यन्ति नियुतः ।
प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥
यस्य त्यन् महित्वं वाताप्यम् अयं जनः ।
विप्र आ वंसद् धीतिभिश् चिकेत सुष्टुतीनाम् ॥
स वेद सुष्टुतीनाम् इन्दुर् न पूषा वृषा ।
अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
मंसीमहि त्वा वयम् अस्माकं देव पूषन् ।
मतीनां च साधनं विप्राणां चाधवम् ॥
प्रत्यर्धिर् यज्ञानाम् अश्वहयो रथानाम् ।
ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥
आधीषमाणायाः पतिः शुचायाश् च शुचस्य च ।
वासोवायो ऽवीनाम् आ वासांसि मर्मृजत् ॥
इनो वाजानाम् पतिर् इनः पुष्टीनां सखा ।
प्र श्मश्रु हर्यतो दूधोद् वि वृथा यो अदाभ्यः ॥
आ ते रथस्य पूषन्न् अजा धुरं ववृत्युः ।
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
अस्माकम् ऊर्जा रथम् पूषा अविष्टु माहिनः ।
भुवद् वाजानां वृध इमं नः शृणवद् धवम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0