भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.025

10.025.01

भद्रं नो अपि वातय मनो दक्षम् उत क्रतुम् ।
अधा ते सख्ये अन्धसो वि वो मदे रणन् गावो न यवसे विवक्षसे ॥

10.025.02

हृदिस्पृशस् त आसते विश्वेषु सोम धामसु ।
अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥

10.025.03

उत व्रतानि सोम ते प्राहम् मिनामि पाक्या ।
अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद् वधाद् विवक्षसे ॥

10.025.04

सम् उ प्र यन्ति धीतयः सर्गासो ऽवताँ इव ।
क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥

10.025.05

तव त्ये सोम शक्तिभिर् निकामासो व्य् ऋण्विरे ।
गृत्सस्य धीरास् तवसो वि वो मदे व्रजं गोमन्तम् अश्विनं विवक्षसे ॥

10.025.06

पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।
समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन् भुवना विवक्षसे ॥

10.025.07

त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।
सेध राजन्न् अप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥

10.025.08

त्वं नः सोम सुक्रतुर् वयोधेयाय जागृहि ।
क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्य् अंहसो विवक्षसे ॥

10.025.09

त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।
यत् सीं हवन्ते समिथे वि वो मदे युध्यमानास् तोकसातौ विवक्षसे ॥

10.025.10

अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।
अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद् विवक्षसे ॥

10.025.11

अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः ।
अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् विवक्षसे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc