भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.024

10.024.01

इन्द्र सोमम् इमम् पिब मधुमन्तं चमू सुतम् ।
अस्मे रयिं नि धारय वि वो मदे सहस्रिणम् पुरूवसो विवक्षसे ॥

10.024.02

त्वां यज्ञेभिर् उक्थैर् उप हव्येभिर् ईमहे ।
शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥

10.024.03

यस् पतिर् वार्याणाम् असि रध्रस्य चोदिता ।
इन्द्र स्तोतॄणाम् अविता वि वो मदे द्विषो नः पाह्य् अंहसो विवक्षसे ॥

10.024.04

युवं शक्रा मायाविना समीची निर् अमन्थतम् ।
विमदेन यद् ईळिता नासत्या निरमन्थतम् ॥

10.024.05

विश्वे देवा अकृपन्त समीच्योर् निष्पतन्त्योः ।
नासत्याव् अब्रुवन् देवाः पुनर् आ वहताद् इति ॥

10.024.06

मधुमन् मे परायणम् मधुमत् पुनर् आयनम् ।
ता नो देवा देवतया युवम् मधुमतस् कृतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc