ऋग्वेद · अध्याय 10.022
कुह श्रुत इन्द्रः कस्मिन्न् अद्य जने मित्रो न श्रूयते ।
ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्य् ऋचीषमः ।
मित्रो न यो जनेष्व् आ यशश् चक्रे असाम्य् आ ॥
महो यस् पतिः शवसो असाम्य् आ महो नृम्णस्य तूतुजिः ।
भर्ता वज्रस्य धृष्णोः पिता पुत्रम् इव प्रियम् ॥
युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
स्यन्ता पथा विरुक्मता सृजानः स्तोष्य् अध्वनः ॥
त्वं त्या चिद् वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
ययोर् देवो न मर्त्यो यन्ता नकिर् विदाय्यः ॥
अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् ।
आ जग्मथुः पराकाद् दिवश् च ग्मश् च मर्त्यम् ॥
आ न इन्द्र पृक्षसे ऽस्माकम् ब्रह्मोद्यतम् ।
तत् त्वा याचामहे ऽवः शुष्णं यद् धन्न् अमानुषम् ॥
अकर्मा दस्युर् अभि नो अमन्तुर् अन्यव्रतो अमानुषः ।
त्वं तस्यामित्रहन् वधर् दासस्य दम्भय ॥
त्वं न इन्द्र शूर शूरैर् उत त्वोतासो बर्हणा ।
पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥
त्वं तान् वृत्रहत्ये चोदयो नॄन् कार्पाणे शूर वज्रिवः ।
गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
यद् ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥
माकुध्र्यग् इन्द्र शूर वस्वीर् अस्मे भूवन्न् अभिष्टयः ।
वयं-वयं त आसां सुम्ने स्याम वज्रिवः ॥
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीर् उपस्पृशः ।
विद्याम यासाम् भुजो धेनूनां न वज्रिवः ॥
अहस्ता यद् अपदी वर्धत क्षाः शचीभिर् वेद्यानाम् ।
शुष्णम् परि प्रदक्षिणिद् विश्वायवे नि शिश्नथः ॥
पिबा-पिबेद् इन्द्र शूर सोमम् मा रिषण्यो वसवान वसुः सन् ।
उत त्रायस्व गृणतो मघोनो महश् च रायो रेवतस् कृधी नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0