ऋग्वेद · अध्याय 10.021
आग्निं न स्ववृक्तिभिर् होतारं त्वा वृणीमहे ।
यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरम् पावकशोचिषं विवक्षसे ॥
त्वाम् उ ते स्वाभुवः शुम्भन्त्य् अश्वराधसः ।
वेति त्वाम् उपसेचनी वि वो मद ऋजीतिर् अग्न आहुतिर् विवक्षसे ॥
त्वे धर्माण आसते जुहूभिः सिञ्चतीर् इव ।
कृष्णा रूपाण्य् अर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥
यम् अग्ने मन्यसे रयिं सहसावन्न् अमर्त्य ।
तम् आ नो वाजसातये वि वो मदे यज्ञेषु चित्रम् आ भरा विवक्षसे ॥
अग्निर् जातो अथर्वणा विदद् विश्वानि काव्या ।
भुवद् दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥
त्वां यज्ञेष्व् ईळते ऽग्ने प्रयत्य् अध्वरे ।
त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥
त्वां यज्ञेष्व् ऋत्विजं चारुम् अग्ने नि षेदिरे ।
घृतप्रतीकम् मनुषो वि वो मदे शुक्रं चेतिष्ठम् अक्षभिर् विवक्षसे ॥
अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।
अभिक्रन्दन् वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0