ऋग्वेद · अध्याय 10.023
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य1ं विव्रतानाम् ।
प्र श्मश्रु दोधुवद् ऊर्ध्वथा भूद् वि सेनाभिर् दयमानो वि राधसा ॥
हरी न्व् अस्य या वने विदे वस्व् इन्द्रो मघैर् मघवा वृत्रहा भुवत् ।
ऋभुर् वाज ऋभुक्षाः पत्यते शवो ऽव क्ष्णौमि दासस्य नाम चित् ॥
यदा वज्रं हिरण्यम् इद् अथा रथं हरी यम् अस्य वहतो वि सूरिभिः ।
आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस् पतिः ॥
सो चिन् नु वृष्टिर् यूथ्या3 स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
अव वेति सुक्षयं सुते मधूद् इद् धूनोति वातो यथा वनम् ॥
यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
तत्-तद् इद् अस्य पौंस्यं गृणीमसि पितेव यस् तविषीं वावृधे शवः ॥
स्तोमं त इन्द्र विमदा अजीजनन्न् अपूर्व्यम् पुरुतमं सुदानवे ।
विद्मा ह्य् अस्य भोजनम् इनस्य यद् आ पशुं न गोपाः करामहे ॥
माकिर् न एना सख्या वि यौषुस् तव चेन्द्र विमदस्य च ऋषेः ।
विद्मा हि ते प्रमतिं देव जामिवद् अस्मे ते सन्तु सख्या शिवानि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0