ऋग्वेद · अध्याय 10.017
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वम् भुवनं सम् एति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
अपागूहन्न् अमृताम् मर्त्येभ्यः कृत्वी सवर्णाम् अददुर् विवस्वते ।
उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥
पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः ।
स त्वैतेभ्यः परि ददत् पितृभ्यो ऽग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥
आयुर् विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस् तत्र त्वा देवः सविता दधातु ॥
पूषेमा आशा अनु वेद सर्वाः सो अस्माँ अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरो ऽप्रयुच्छन् पुर एतु प्रजानन् ॥
प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने ।
सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥
सरस्वति या सरथं ययाथ स्वधाभिर् देवि पितृभिर् मदन्ती ।
आसद्यास्मिन् बर्हिषि मादयस्वानमीवा इष आ धेह्य् अस्मे ॥
सरस्वतीं याम् पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः ।
सहस्रार्घम् इळो अत्र भागं रायस् पोषं यजमानेषु धेहि ॥
आपो अस्मान् मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
विश्वं हि रिप्रम् प्रवहन्ति देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
द्रप्सश् चस्कन्द प्रथमाँ अनु द्यून् इमं च योनिम् अनु यश् च पूर्वः ।
समानं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
यस् ते द्रप्सः स्कन्दति यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर् वा परि वा यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ॥
यस् ते द्रप्सः स्कन्नो यस् ते अंशुर् अवश् च यः परः स्रुचा ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥
पयस्वतीर् ओषधयः पयस्वन् मामकं वचः ।
अपाम् पयस्वद् इत् पयस् तेन मा सह शुन्धत ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0