भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.016

10.016.01

मैनम् अग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो ऽथेम् एनम् प्र हिणुतात् पितृभ्यः ॥

10.016.02

शृतं यदा करसि जातवेदो ऽथेम् एनम् परि दत्तात् पितृभ्यः ।
यदा गच्छात्य् असुनीतिम् एताम् अथा देवानां वशनीर् भवाति ॥

10.016.03

सूर्यं चक्षुर् गच्छतु वातम् आत्मा द्यां च गच्छ पृथिवीं च धर्मणा ।
अपो वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥

10.016.04

अजो भागस् तपसा तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः ।
यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥

10.016.05

अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधाभिः ।
आयुर् वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥

10.016.06

यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणाँ आविवेश ॥

10.016.07

अग्नेर् वर्म परि गोभिर् व्ययस्व सम् प्रोर्णुष्व पीवसा मेदसा च ।
नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्ष्यन् पर्यङ्खयाते ॥

10.016.08

इमम् अग्ने चमसम् मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् ।
एष यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ते ॥

10.016.09

क्रव्यादम् अग्निम् प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायम् इतरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥

10.016.10

यो अग्निः क्रव्यात् प्रविवेश वो गृहम् इमम् पश्यन्न् इतरं जातवेदसम् ।
तं हरामि पितृयज्ञाय देवं स घर्मम् इन्वात् परमे सधस्थे ॥

10.016.11

यो अग्निः क्रव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।
प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य आ ॥

10.016.12

उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥

10.016.13

यं त्वम् अग्ने समदहस् तम् उ निर् वापया पुनः ।
कियाम्ब्व् अत्र रोहतु पाकदूर्वा व्यल्कशा ॥

10.016.14

शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
मण्डूक्या3 सु सं गम इमं स्व् अ1ग्निं हर्षय ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc