भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.018

10.018.01

परम् मृत्यो अनु परेहि पन्थां यस् ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥

10.018.02

मृत्योः पदं योपयन्तो यद् ऐत द्राघीय आयुः प्रतरं दधानाः ।
आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥

10.018.03

इमे जीवा वि मृतैर् आववृत्रन्न् अभूद् भद्रा देवहूतिर् नो अद्य ।
प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥

10.018.04

इमं जीवेभ्यः परिधिं दधामि मैषां नु गाद् अपरो अर्थम् एतम् ।
शतं जीवन्तु शरदः पुरूचीर् अन्तर् मृत्युं दधताम् पर्वतेन ॥

10.018.05

यथाहान्य् अनुपूर्वम् भवन्ति यथ ऋतव ऋतुभिर् यन्ति साधु ।
यथा न पूर्वम् अपरो जहात्य् एवा धातर् आयूंषि कल्पयैषाम् ॥

10.018.06

आ रोहतायुर् जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ ।
इह त्वष्टा सुजनिमा सजोषा दीर्घम् आयुः करति जीवसे वः ॥

10.018.07

इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो ऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥

10.018.08

उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि ।
हस्तग्राभस्य दिधिषोस् तवेदम् पत्युर् जनित्वम् अभि सम् बभूथ ॥

10.018.09

धनुर् हस्ताद् आददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय ।
अत्रैव त्वम् इह वयं सुवीरा विश्वाः स्पृधो अभिमातीर् जयेम ॥

10.018.10

उप सर्प मातरम् भूमिम् एताम् उरुव्यचसम् पृथिवीं सुशेवाम् ।
ऊर्णम्रदा युवतिर् दक्षिणावत एषा त्वा पातु निरृतेर् उपस्थात् ॥

10.018.11

उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचाभ्य् एनम् भूम ऊर्णुहि ॥

10.018.12

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्व् अत्र ॥

10.018.13

उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहं रिषम् ।
एतां स्थूणाम् पितरो धारयन्तु ते ऽत्रा यमः सादना ते मिनोतु ॥

10.018.14

प्रतीचीने माम् अहनीष्वाः पर्णम् इवा दधुः ।
प्रतीचीं जग्रभा वाचम् अश्वं रशनया यथा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc