भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.015

10.015.01

उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः ।
असुं य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥

10.015.02

इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥

10.015.03

आहम् पितॄन् सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥

10.015.04

बर्हिषदः पितर ऊत्य् अ1र्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥

10.015.05

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

10.015.06

आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥

10.015.07

आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥

10.015.08

ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर् यमः संरराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥

10.015.09

ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिर् अर्वाङ् सत्यैः कव्यैः पितृभिर् घर्मसद्भिः ॥

10.015.10

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥

10.015.11

अग्निष्वात्ताः पितर एह गच्छत सदः-सदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिष्य् अथा रयिं सर्ववीरं दधातन ॥

10.015.12

त्वम् अग्न ईळितो जातवेदो ऽवाड् ढव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥

10.015.13

ये चेह पितरो ये च नेह याँश् च विद्म याँ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञं सुकृतं जुषस्व ॥

10.015.14

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
तेभिः स्वराळ् असुनीतिम् एतां यथावशं तन्वं कल्पयस्व ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc