भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.008

10.008.01

प्र केतुना बृहता यात्य् अग्निर् आ रोदसी वृषभो रोरवीति ।
दिवश् चिद् अन्ताँ उपमाँ उद् आनळ् अपाम् उपस्थे महिषो ववर्ध ॥

10.008.02

मुमोद गर्भो वृषभः ककुद्मान् अस्रेमा वत्सः शिमीवाँ अरावीत् ।
स देवतात्य् उद्यतानि कृण्वन् स्वेषु क्षयेषु प्रथमो जिगाति ॥

10.008.03

आ यो मूर्धानम् पित्रोर् अरब्ध न्य् अध्वरे दधिरे सूरो अर्णः ।
अस्य पत्मन्न् अरुषीर् अश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥

10.008.04

उष-उषो हि वसो अग्रम् एषि त्वं यमयोर् अभवो विभावा ।
ऋताय सप्त दधिषे पदानि जनयन् मित्रं तन्वे3 स्वायै ॥

10.008.05

भुवश् चक्षुर् मह ऋतस्य गोपा भुवो वरुणो यद् ऋताय वेषि ।
भुवो अपां नपाज् जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥

10.008.06

भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
दिवि मूर्धानं दधिषे स्वर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥

10.008.07

अस्य त्रितः क्रतुना वव्रे अन्तर् इच्छन् धीतिम् पितुर् एवैः परस्य ।
सचस्यमानः पित्रोर् उपस्थे जामि ब्रुवाण आयुधानि वेति ॥

10.008.08

स पित्र्याण्य् आयुधानि विद्वान् इन्द्रेषित आप्त्यो अभ्य् अयुध्यत् ।
त्रिशीर्षाणं सप्तरश्मिं जघन्वान् त्वाष्ट्रस्य चिन् निः ससृजे त्रितो गाः ॥

10.008.09

भूरीद् इन्द्र उदिनक्षन्तम् ओजो ऽवाभिनत् सत्पतिर् मन्यमानम् ।
त्वाष्ट्रस्य चिद् विश्वरूपस्य गोनाम् आचक्राणस् त्रीणि शीर्षा परा वर्क् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc