ऋग्वेद · अध्याय 10.009
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
शं नो देवीर् अभिष्टय आपो भवन्तु पीतये ।
शं योर् अभि स्रवन्तु नः ॥
ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
अपो याचामि भेषजम् ॥
अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
अग्निं च विश्वशम्भुवम् ॥
आपः पृणीत भेषजं वरूथं तन्वे3 मम ।
ज्योक् च सूर्यं दृशे ॥
इदम् आपः प्र वहत यत् किं च दुरितम् मयि ।
यद् वाहम् अभिदुद्रोह यद् वा शेप उतानृतम् ॥
आपो अद्यान्व् अचारिषं रसेन सम् अगस्महि ।
पयस्वान् अग्न आ गहि तम् मा सं सृज वर्चसा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0