भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.007

10.007.01

स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव ।
सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ॥

10.007.02

इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः ।
यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ॥

10.007.03

अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् ।
अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥

10.007.04

सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता ।
ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ॥

10.007.05

द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् ।
बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ॥

10.007.06

स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः ।
यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ॥

10.007.07

भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः ।
रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो3 अप्रयुच्छन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc