ऋग्वेद · अध्याय 10.004
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु ।
धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ॥
यं त्वा जनासो अभि संचरन्ति गाव उष्णम् इव व्रजं यविष्ठ ।
दूतो देवानाम् असि मर्त्यानाम् अन्तर् महाँश् चरसि रोचनेन ॥
शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना ।
धनोर् अधि प्रवता यासि हर्यञ् जिगीषसे पशुर् इवावसृष्टः ॥
मूरा अमूर न वयं चिकित्वो महित्वम् अग्ने त्वम् अङ्ग वित्से ।
शये वव्रिश् चरति जिह्वयादन् रेरिह्यते युवतिं विश्पतिः सन् ॥
कूचिज् जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
अस्नातापो वृषभो न प्र वेति सचेतसो यम् प्रणयन्त मर्ताः ॥
तनूत्यजेव तस्करा वनर्गू रशनाभिर् दशभिर् अभ्य् अधीताम् ।
इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिर् अङ्गैः ॥
ब्रह्म च ते जातवेदो नमश् चेयं च गीः सदम् इद् वर्धनी भूत् ।
रक्षा णो अग्ने तनयानि तोका रक्षोत नस् तन्वो3 अप्रयुच्छन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0