भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.003

10.003.01

इनो राजन्न् अरतिः समिद्धो रौद्रो दक्षाय सुषुमाँ अदर्शि ।
चिकिद् वि भाति भासा बृहतासिक्नीम् एति रुशतीम् अपाजन् ॥

10.003.02

कृष्णां यद् एनीम् अभि वर्पसा भूज् जनयन् योषाम् बृहतः पितुर् जाम् ।
ऊर्ध्वम् भानुं सूर्यस्य स्तभायन् दिवो वसुभिर् अरतिर् वि भाति ॥

10.003.03

भद्रो भद्रया सचमान आगात् स्वसारं जारो अभ्य् एति पश्चात् ।
सुप्रकेतैर् द्युभिर् अग्निर् वितिष्ठन् रुशद्भिर् वर्णैर् अभि रामम् अस्थात् ॥

10.003.04

अस्य यामासो बृहतो न वग्नून् इन्धाना अग्नेः सख्युः शिवस्य ।
ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्न् अक्तवश् चिकित्रे ॥

10.003.05

स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः ।
ज्येष्ठेभिर् यस् तेजिष्ठैः क्रीळुमद्भिर् वर्षिष्ठेभिर् भानुभिर् नक्षति द्याम् ॥

10.003.06

अस्य शुष्मासो ददृशानपवेर् जेहमानस्य स्वनयन् नियुद्भिः ।
प्रत्नेभिर् यो रुशद्भिर् देवतमो वि रेभद्भिर् अरतिर् भाति विभ्वा ॥

10.003.07

स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योर् अरतिर् युवत्योः ।
अग्निः सुतुकः सुतुकेभिर् अश्वै रभस्वद्भी रभस्वाँ एह गम्याः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc