ऋग्वेद · अध्याय 10.005
एकः समुद्रो धरुणो रयीणाम् अस्मद् धृदो भूरिजन्मा वि चष्टे ।
सिषक्त्य् ऊधर् निण्योर् उपस्थ उत्सस्य मध्ये निहितम् पदं वेः ॥
समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर् वर्धयन्ती ।
विश्वस्य नाभिं चरतो ध्रुवस्य कवेश् चित् तन्तुम् मनसा वियन्तः ॥
ऋतस्य हि वर्तनयः सुजातम् इषो वाजाय प्रदिवः सचन्ते ।
अधीवासं रोदसी वावसाने घृतैर् अन्नैर् वावृधाते मधूनाम् ॥
सप्त स्वसॄर् अरुषीर् वावशानो विद्वान् मध्व उज् जभारा दृशे कम् ।
अन्तर् येमे अन्तरिक्षे पुराजा इच्छन् वव्रिम् अविदत् पूषणस्य ॥
सप्त मर्यादाः कवयस् ततक्षुस् तासाम् एकाम् इद् अभ्य् अंहुरो गात् ।
आयोर् ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥
असच् च सच् च परमे व्योमन् दक्षस्य जन्मन्न् अदितेर् उपस्थे ।
अग्निर् ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश् च धेनुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0