भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.002

10.002.01

पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँर् ऋतुपते यजेह ।
ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वं होतॄणाम् अस्य् आयजिष्ठः ॥

10.002.02

वेषि होत्रम् उत पोत्रं जनानाम् मन्धातासि द्रविणोदा ऋतावा ।
स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्व् अग्निर् अर्हन् ॥

10.002.03

आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोळ्हुम् ।
अग्निर् विद्वान् स यजात् सेद् उ होता सो अध्वरान् स ऋतून् कल्पयाति ॥

10.002.04

यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवाँ ऋतुभिः कल्पयाति ॥

10.002.05

यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
अग्निष् टद् धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति ॥

10.002.06

विश्वेषां ह्य् अध्वराणाम् अनीकं चित्रं केतुं जनिता त्वा जजान ।
स आ यजस्व नृवतीर् अनु क्षाः स्पार्हा इषः क्षुमतीर् विश्वजन्याः ॥

10.002.07

यं त्वा द्यावापृथिवी यं त्वापस् त्वष्टा यं त्वा सुजनिमा जजान ।
पन्थाम् अनु प्रविद्वान् पितृयाणं द्युमद् अग्ने समिधानो वि भाहि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc