भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.001

10.001.01

अग्रे बृहन्न् उषसाम् ऊर्ध्वो अस्थान् निर्जगन्वान् तमसो ज्योतिषागात् ।
अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥

10.001.02

स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु ।
चित्रः शिशुः परि तमांस्य् अक्तून् प्र मातृभ्यो अधि कनिक्रदद् गाः ॥

10.001.03

विष्णुर् इत्था परमम् अस्य विद्वाञ् जातो बृहन्न् अभि पाति तृतीयम् ।
आसा यद् अस्य पयो अक्रत स्वं सचेतसो अभ्य् अर्चन्त्य् अत्र ॥

10.001.04

अत उ त्वा पितुभृतो जनित्रीर् अन्नावृधम् प्रति चरन्त्य् अन्नैः ।
ता ईम् प्रत्य् एषि पुनर् अन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥

10.001.05

होतारं चित्ररथम् अध्वरस्य यज्ञस्य-यज्ञस्य केतुं रुशन्तम् ।
प्रत्यर्धिं देवस्य-देवस्य मह्ना श्रिया त्व् अ1ग्निम् अतिथिं जनानाम् ॥

10.001.06

स तु वस्त्राण्य् अध पेशनानि वसानो अग्निर् नाभा पृथिव्याः ।
अरुषो जातः पद इळायाः पुरोहितो राजन् यक्षीह देवान् ॥

10.001.07

आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
प्र याह्य् अच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc