भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.191

1.191.01

कङ्कतो न कङ्कतो ऽथो सतीनकङ्कतः ।
द्वाव् इति प्लुषी इति न्य् अ1दृष्टा अलिप्सत ॥

1.191.02

अदृष्टान् हन्त्य् आयत्य् अथो हन्ति परायती ।
अथो अवघ्नती हन्त्य् अथो पिनष्टि पिंषती ॥

1.191.03

शरासः कुशरासो दर्भासः सैर्या उत ।
मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्य् अलिप्सत ॥

1.191.04

नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
नि केतवो जनानां न्य् अ1दृष्टा अलिप्सत ॥

1.191.05

एत उ त्ये प्रत्य् अदृश्रन् प्रदोषं तस्करा इव ।
अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥

1.191.06

द्यौर् वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
अदृष्टा विश्वदृष्टास् तिष्ठतेलयता सु कम् ॥

1.191.07

ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः ।
अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥

1.191.08

उत् पुरस्तात् सूर्य एति विश्वदृष्टो अदृष्टहा ।
अदृष्टान् सर्वाञ् जम्भयन् सर्वाश् च यातुधान्यः ॥

1.191.09

उद् अपप्तद् असौ सूर्यः पुरु विश्वानि जूर्वन् ।
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥

1.191.10

सूर्ये विषम् आ सजामि दृतिं सुरावतो गृहे ।
सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

1.191.11

इयत्तिका शकुन्तिका सका जघास ते विषम् ।
सो चिन् नु न मराति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

1.191.12

त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यम् अक्षन् ।
ताश् चिन् नु न मरन्ति नो वयम् मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

1.191.13

नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासाम् अग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥

1.191.14

त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
तास् ते विषं वि जभ्रिर उदकं कुम्भिनीर् इव ॥

1.191.15

इयत्तकः कुषुम्भकस् तकम् भिनद्म्य् अश्मना ।
ततो विषम् प्र वावृते पराचीर् अनु संवतः ॥

1.191.16

कुषुम्भकस् तद् अब्रवीद् गिरेः प्रवर्तमानकः ।
वृश्चिकस्यारसं विषम् अरसं वृश्चिक ते विषम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc