ऋग्वेद · अध्याय 1.190
अनर्वाणं वृषभम् मन्द्रजिह्वम् बृहस्पतिं वर्धया नव्यम् अर्कैः ।
गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥
तम् ऋत्विया उप वाचः सचन्ते सर्गो न यो देवयताम् असर्जि ।
बृहस्पतिः स ह्य् अञ्जो वरांसि विभ्वाभवत् सम् ऋते मातरिश्वा ॥
उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत् सवितेव प्र बाहू ।
अस्य क्रत्वाहन्यो3 यो अस्ति मृगो न भीमो अरक्षसस् तुविष्मान् ॥
अस्य श्लोको दिवीयते पृथिव्याम् अत्यो न यंसद् यक्षभृद् विचेताः ।
मृगाणां न हेतयो यन्ति चेमा बृहस्पतेर् अहिमायाँ अभि द्यून् ॥
ये त्वा देवोस्रिकम् मन्यमानाः पापा भद्रम् उपजीवन्ति पज्राः ।
न दूढ्ये3 अनु ददासि वामम् बृहस्पते चयस इत् पियारुम् ॥
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
अनर्वाणो अभि ये चक्षते नो ऽपीवृता अपोर्णुवन्तो अस्थुः ॥
सं यं स्तुभो ऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
स विद्वाँ उभयं चष्टे अन्तर् बृहस्पतिस् तर आपश् च गृध्रः ॥
एवा महस् तुविजातस् तुविष्मान् बृहस्पतिर् वृषभो धायि देवः ।
स नः स्तुतो वीरवद् धातु गोमद् विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0