भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.189

1.189.01

अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अ1स्मज् जुहुराणम् एनो भूयिष्ठां ते नमüक्तिं विधेम ॥

1.189.02

अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिर् अति दुर्गाणि विश्वा ।
पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥

1.189.03

अग्ने त्वम् अस्मद् युयोध्य् अमीवा अनग्नित्रा अभ्य् अमन्त कृष्टीः ।
पुनर् अस्मभ्यं सुविताय देव क्षां विश्वेभिर् अमृतेभिर् यजत्र ॥

1.189.04

पाहि नो अग्ने पायुभिर् अजस्रैर् उत प्रिये सदन आ शुशुक्वान् ।
मा ते भयं जरितारं यविष्ठ नूनं विदन् मापरं सहस्वः ॥

1.189.05

मा नो अग्ने ऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
मा दत्वते दशते मादते नो मा रीषते सहसावन् परा दाः ॥

1.189.06

वि घ त्वावाँ ऋतजात यंसद् गृणानो अग्ने तन्वे3 वरूथम् ।
विश्वाद् रिरिक्षोर् उत वा निनित्सोर् अभिह्रुताम् असि हि देव विष्पट् ॥

1.189.07

त्वं ताँ अग्न उभयान् वि विद्वान् वेषि प्रपित्वे मनुषो यजत्र ।
अभिपित्वे मनवे शास्यो भूर् मर्मृजेन्य उशिग्भिर् नाक्रः ॥

1.189.08

अवोचाम निवचनान्य् अस्मिन् मानस्य सूनुः सहसाने अग्नौ ।
वयं सहस्रम् ऋषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc