ऋग्वेद · अध्याय 1.188
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
दूतो हव्या कविर् वह ॥
तनूनपाद् ऋतं यते मध्वा यज्ञः सम् अज्यते ।
दधत् सहस्रिणीर् इषः ॥
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् ।
अग्ने सहस्रसा असि ॥
प्राचीनम् बर्हिर् ओजसा सहस्रवीरम् अस्तृणन् ।
यत्रादित्या विराजथ ॥
विराट् सम्राड् विभ्वीः प्रभ्वीर् बह्वीश् च भूयसीश् च याः ।
दुरो घृतान्य् अक्षरन् ॥
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
उषासाव् एह सीदताम् ॥
प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
यज्ञं नो यक्षताम् इमम् ॥
भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
ता नश् चोदयत श्रिये ॥
त्वष्टा रूपाणि हि प्रभुः पशून् विश्वान् समानजे ।
तेषां नः स्फातिम् आ यज ॥
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
अग्निर् हव्यानि सिष्वदत् ॥
पुरोगा अग्निर् देवानां गायत्रेण सम् अज्यते ।
स्वाहाकृतीषु रोचते ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0