भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.186

1.186.01

आ न इळाभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ॥

1.186.02

आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ॥

1.186.03

प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः ।
असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ॥

1.186.04

उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ॥

1.186.05

उत नो ऽहिर् बुध्न्यो3 मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः ।
येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥

1.186.06

उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः ।
आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ॥

1.186.07

उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति ।
तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥

1.186.08

उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु ।
पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥

1.186.09

प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति ।
अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ॥

1.186.10

प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति ।
अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥

1.186.11

इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः ।
नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc