भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.187

1.187.01

पितुं नु स्तोषम् महो धर्माणं तविषीम् ।
यस्य त्रितो व्य् ओजसा वृत्रं विपर्वम् अर्दयत् ॥

1.187.02

स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
अस्माकम् अविता भव ॥

1.187.03

उप नः पितव् आ चर शिवः शिवाभिर् ऊतिभिः ।
मयोभुर् अद्विषेण्यः सखा सुशेवो अद्वयाः ॥

1.187.04

तव त्ये पितो रसा रजांस्य् अनु विष्ठिताः ।
दिवि वाता इव श्रिताः ॥

1.187.05

तव त्ये पितो ददतस् तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥

1.187.06

त्वे पितो महानां देवानाम् मनो हितम् ।
अकारि चारु केतुना तवाहिम् अवसावधीत् ॥

1.187.07

यद् अदो पितो अजगन् विवस्व पर्वतानाम् ।
अत्रा चिन् नो मधो पितो ऽरम् भक्षाय गम्याः ॥

1.187.08

यद् अपाम् ओषधीनाम् परिंशम् आरिशामहे ।
वातापे पीव इद् भव ॥

1.187.09

यत् ते सोम गवाशिरो यवाशिरो भजामहे ।
वातापे पीव इद् भव ॥

1.187.10

करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
वातापे पीव इद् भव ॥

1.187.11

तं त्वा वयम् पितो वचोभिर् गावो न हव्या सुषूदिम ।
देवेभ्यस् त्वा सधमादम् अस्मभ्यं त्वा सधमादम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc