ऋग्वेद · अध्याय 1.185
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
विश्वं त्मना बिभृतो यद् ध नाम वि वर्तेते अहनी चक्रियेव ॥
भूरिं द्वे अचरन्ती चरन्तम् पद्वन्तं गर्भम् अपदी दधाते ।
नित्यं न सूनुम् पित्रोर् उपस्थे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
अनेहो दात्रम् अदितेर् अनर्वं हुवे स्वर्वद् अवधं नमस्वत् ।
तद् रोदसी जनयतं जरित्रे द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
उभे देवानाम् उभयेभिर् अह्नां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोर् उपस्थे ।
अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
उर्वी सद्मनी बृहती ऋतेन हुवे देवानाम् अवसा जनित्री ।
दधाते ये अमृतं सुप्रतीके द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
देवान् वा यच् चकृमा कच् चिद् आगः सखायं वा सदम् इज् जास्पतिं वा ।
इयं धीर् भूया अवयानम् एषां द्यावा रक्षतम् पृथिवी नो अभ्वात् ॥
उभा शंसा नर्या माम् अविष्टाम् उभे माम् ऊती अवसा सचेताम् ।
भूरि चिद् अर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
ऋतं दिवे तद् अवोचम् पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
पाताम् अवद्याद् दुरिताद् अभीके पिता माता च रक्षताम् अवोभिः ॥
इदं द्यावापृथिवी सत्यम् अस्तु पितर् मातर् यद् इहोपब्रुवे वाम् ।
भूतं देवानाम् अवमे अवोभिर् विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0