भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.184

1.184.01

ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः ।
नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ॥

1.184.02

अस्मे ऊ षु वृषणा मादयेथाम् उत् पणीँर् हतम् ऊर्म्या मदन्ता ।
श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ॥

1.184.03

श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥

1.184.04

अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः ।
अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥

1.184.05

एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति ।
यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥

1.184.06

अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि ।
एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc