भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.183

1.183.01

तं युञ्जाथाम् मनसो यो जवीयान् त्रिवन्धुरो वृषणा यस् त्रिचक्रः ।
येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर् न पर्णैः ॥

1.183.02

सुवृद् रथो वर्तते यन्न् अभि क्षां यत् तिष्ठथः क्रतुमन्तानु पृक्षे ।
वपुर् वपुष्या सचताम् इयं गीर् दिवो दुहित्रोषसा सचेथे ॥

1.183.03

आ तिष्ठतं सुवृतं यो रथो वाम् अनु व्रतानि वर्तते हविष्मान् ।
येन नरा नासत्येषयध्यै वर्तिर् याथस् तनयाय त्मने च ॥

1.183.04

मा वां वृको मा वृकीर् आ दधर्षीन् मा परि वर्क्तम् उत माति धक्तम् ।
अयं वाम् भागो निहित इयं गीर् दस्राव् इमे वां निधयो मधूनाम् ॥

1.183.05

युवां गोतमः पुरुमीळ्हो अत्रिर् दस्रा हवते ऽवसे हविष्मान् ।
दिशं न दिष्टाम् ऋजूयेव यन्ता मे हवं नासत्योप यातम् ॥

1.183.06

अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि ।
एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc