भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.182

1.182.01

अभूद् इदं वयुनम् ओ षु भूषता रथो वृषण्वान् मदता मनीषिणः ।
धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥

1.182.02

इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसम् उप याथो अश्विना ॥

1.182.03

किम् अत्र दस्रा कृणुथः किम् आसाथे जनो यः कश् चिद् अहविर् महीयते ।
अति क्रमिष्टं जुरतम् पणेर् असुं ज्योतिर् विप्राय कृणुतं वचस्यवे ॥

1.182.04

जम्भयतम् अभितो रायतः शुनो हतम् मृधो विदथुस् तान्य् अश्विना ।
वाचं-वाचं जरितू रत्निनीं कृतम् उभा शंसं नासत्यावतम् मम ॥

1.182.05

युवम् एतं चक्रथुः सिन्धुषु प्लवम् आत्मन्वन्तम् पक्षिणं तौग्र्याय कम् ।
येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥

1.182.06

अवविद्धं तौग्र्यम् अप्स्व् अ1न्तर् अनारम्भणे तमसि प्रविद्धम् ।
चतस्रो नावो जठलस्य जुष्टा उद् अश्विभ्याम् इषिताः पारयन्ति ॥

1.182.07

कः स्विद् वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
पर्णा मृगस्य पतरोर् इवारभ उद् अश्विना ऊहथुः श्रोमताय कम् ॥

1.182.08

तद् वां नरा नासत्याव् अनु ष्याद् यद् वाम् मानास उचथम् अवोचन् ।
अस्माद् अद्य सदसः सोम्याद् आ विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc