ऋग्वेद · अध्याय 1.181
कद् उ प्रेष्टाव् इषां रयीणाम् अध्वर्यन्ता यद् उन्निनीथो अपाम् ।
अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥
आ वाम् अश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥
आ वां रथो ऽवनिर् न प्रवत्वान् सृप्रवन्धुरः सुविताय गम्याः ।
वृष्णः स्थातारा मनसो जवीयान् अहम्पूर्वो यजतो धिष्ण्या यः ॥
इहेह जाता सम् अवावशीताम् अरेपसा तन्वा3 नामभिः स्वैः ।
जिष्णुर् वाम् अन्यः सुमखस्य सूरिर् दिवो अन्यः सुभगः पुत्र ऊहे ॥
प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः ।
हरी अन्यस्य पीपयन्त वाजैर् मथ्रा रजांस्य् अश्विना वि घोषैः ॥
प्र वां शरद्वान् वृषभो न निष्षाट् पूर्वीर् इषश् चरति मध्व इष्णन् ।
एवैर् अन्यस्य पीपयन्त वाजैर् वेषन्तीर् ऊर्ध्वा नद्यो न आगुः ॥
असर्जि वां स्थविरा वेधसा गीर् बाळ्हे अश्विना त्रेधा क्षरन्ती ।
उपस्तुताव् अवतं नाधमानं यामन्न् अयामञ् छृणुतं हवम् मे ॥
उत स्या वां रुशतो वप्ससो गीस् त्रिबर्हिषि सदसि पिन्वते नॄन् ।
वृषा वाम् मेघो वृषणा पीपाय गोर् न सेके मनुषो दशस्यन् ॥
युवाम् पूषेवाश्विना पुरंधिर् अग्निम् उषां न जरते हविष्मान् ।
हुवे यद् वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0