ऋग्वेद · अध्याय 1.175
मत्स्य् अपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
वृषा ते वृष्ण इन्दुर् वाजी सहस्रसातमः ॥
आ नस् ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
सहावाँ इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥
त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
सहावान् दस्युम् अव्रतम् ओषः पात्रं न शोचिषा ॥
मुषाय सूर्यं कवे चक्रम् ईशान ओजसा ।
वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0