ऋग्वेद · अध्याय 1.176
मत्सि नो वस्यïष्टय इन्द्रम् इन्दो वृषा विश ।
ऋघायमाण इन्वसि शत्रुम् अन्ति न विन्दसि ॥
तस्मिन्न् आ वेशया गिरो य एकश् चर्षणीनाम् ।
अनु स्वधा यम् उप्यते यवं न चर्कृषद् वृषा ॥
यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
स्पाशयस्व यो अस्मध्रुग् दिव्येवाशनिर् जहि ॥
असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
अस्मभ्यम् अस्य वेदनं दद्धि सूरिश् चिद् ओहते ॥
आवो यस्य द्विबर्हसो ऽर्केषु सानुषग् असत् ।
आजाव् इन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
ताम् अनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0