ऋग्वेद · अध्याय 1.174
त्वं राजेन्द्र ये च देवा रक्षा नॄन् पाह्य् असुर त्वम् अस्मान् ।
त्वं सत्पतिर् मघवा नस् तरुत्रस् त्वं सत्यो वसवानः सहोदाः ॥
दनो विश इन्द्र मृध्रवाचः सप्त यत् पुरः शर्म शारदीर् दर्त् ।
ऋणोर् अपो अनवद्यार्णा यूने वृत्रम् पुरुकुत्साय रन्धीः ॥
अजा वृत इन्द्र शूरपत्नीर् द्यां च येभिः पुरुहूत नूनम् ।
रक्षो अग्निम् अशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥
शेषन् नु त इन्द्र सस्मिन् योनौ प्रशस्तये पवीरवस्य मह्ना ।
सृजद् अर्णांस्य् अव यद् युधा गास् तिष्ठद् धरी धृषता मृष्ट वाजान् ॥
वह कुत्सम् इन्द्र यस्मिञ् चाकन् स्यूमन्यू ऋज्रा वातस्याश्वा ।
प्र सूरश् चक्रं वृहताद् अभीके ऽभि स्पृधो यासिषद् वज्रबाहुः ॥
जघन्वाँ इन्द्र मित्रेरूञ् चोदप्रवृद्धो हरिवो अदाशून् ।
प्र ये पश्यन्न् अर्यमणं सचायोस् त्वया शूर्ता वहमाना अपत्यम् ॥
रपत् कविर् इन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
करत् तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचम् मृधि श्रेत् ॥
सना ता त इन्द्र नव्या आगुः सहो नभो ऽविरणाय पूर्वीः ।
भिनत् पुरो न भिदो अदेवीर् ननमो वधर् अदेवस्य पीयोः ॥
त्वं धुनिर् इन्द्र धुनिमतीर् ऋणोर् अपः सीरा न स्रवन्तीः ।
प्र यत् समुद्रम् अति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
त्वम् अस्माकम् इन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0