भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.170

1.170.01

न नूनम् अस्ति नो श्वः कस् तद् वेद यद् अद्भुतम् ।
अन्यस्य चित्तम् अभि संचरेण्यम् उताधीतं वि नश्यति ॥

1.170.02

किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव ।
तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥

1.170.03

किं नो भ्रातर् अगस्त्य सखा सन्न् अति मन्यसे ।
विद्मा हि ते यथा मनो ऽस्मभ्यम् इन् न दित्ससि ॥

1.170.04

अरं कृण्वन्तु वेदिं सम् अग्निम् इन्धताम् पुरः ।
तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥

1.170.05

त्वम् ईशिषे वसुपते वसूनां त्वम् मित्राणाम् मित्रपते धेष्ठः ।
इन्द्र त्वम् मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc