ऋग्वेद · अध्याय 1.171
प्रति व एना नमसाहम् एमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
रराणता मरुतो वेद्याभिर् नि हेळो धत्त वि मुचध्वम् अश्वान् ॥
एष वः स्तोमो मरुतो नमस्वान् हृदा तष्टो मनसा धायि देवाः ।
उपेम् आ यात मनसा जुषाणा यूयं हि ष्ठा नमस इद् वृधासः ॥
स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
ऊर्ध्वा नः सन्तु कोम्या वनान्य् अहानि विश्वा मरुतो जिगीषा ॥
अस्माद् अहं तविषाद् ईषमाण इन्द्राद् भिया मरुतो रेजमानः ।
युष्मभ्यं हव्या निशितान्य् आसन् तान्य् आरे चकृमा मृळता नः ॥
येन मानासश् चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
स नो मरुद्भिर् वृषभ श्रवो धा उग्र उग्रेभिः स्थविरः सहोदाः ॥
त्वम् पाहीन्द्र सहीयसो नॄन् भवा मरुद्भिर् अवयातहेळाः ।
सुप्रकेतेभिः सासहिर् दधानो विद्यामेषं वृजनं जीरदानुम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0