भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.169

1.169.01

महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता ।
स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ॥

1.169.02

अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा ।
मरुताम् पृत्सुतिर् हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥

1.169.03

अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति ।
अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ॥

1.169.04

त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
स्तुतश् च यास् ते चकनन्त वायोः स्तनं न मध्वः पीपयन्त वाजैः ॥

1.169.05

त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः ।
ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥

1.169.06

प्रति प्र याहीन्द्र मीळ्हुषो नॄन् महः पार्थिवे सदने यतस्व ।
अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ॥

1.169.07

प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः ।
ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ॥

1.169.08

त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
स्तवानेभिः स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc