भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.164

1.164.01

अस्य वामस्य पलितस्य होतुस् तस्य भ्राता मध्यमो अस्त्य् अश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥

1.164.02

सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा ।
त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥

1.164.03

इमं रथम् अधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्य् अश्वाः ।
सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥

1.164.04

को ददर्श प्रथमं जायमानम् अस्थन्वन्तं यद् अनस्था बिभर्ति ।
भूम्या असुर् असृग् आत्मा क्व स्वित् को विद्वांसम् उप गात् प्रष्टुम् एतत् ॥

1.164.05

पाकः पृच्छामि मनसाविजानन् देवानाम् एना निहिता पदानि ।
वत्से बष्कये ऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥

1.164.06

अचिकित्वाञ् चिकितुषश् चिद् अत्र कवीन् पृच्छामि विद्मने न विद्वान् ।
वि यस् तस्तम्भ षळ् इमा रजांस्य् अजस्य रूपे किम् अपि स्विद् एकम् ॥

1.164.07

इह ब्रवीतु य ईम् अङ्ग वेदास्य वामस्य निहितम् पदं वेः ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकम् पदापुः ॥

1.164.08

माता पितरम् ऋत आ बभाज धीत्य् अग्रे मनसा सं हि जग्मे ।
सा बीभत्सुर् गर्भरसा निविद्धा नमस्वन्त इद् उपवाकम् ईयुः ॥

1.164.09

युक्ता मातासीद् धुरि दक्षिणाया अतिष्ठद् गर्भो वृजनीष्व् अन्तः ।
अमीमेद् वत्सो अनु गाम् अपश्यद् विश्वरूप्यं त्रिषु योजनेषु ॥

1.164.10

तिस्रो मातॄस् त्रीन् पितॄन् बिभ्रद् एक ऊर्ध्वस् तस्थौ नेम् अव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचम् अविश्वमिन्वाम् ॥

1.164.11

द्वादशारं नहि तज् जराय वर्वर्ति चक्रम् परि द्याम् ऋतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश् च तस्थुः ॥

1.164.12

पञ्चपादम् पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुर् अर्पितम् ॥

1.164.13

पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आ तस्थुर् भुवनानि विश्वा ।
तस्य नाक्षस् तप्यते भूरिभारः सनाद् एव न शीर्यते सनाभिः ॥

1.164.14

सनेमि चक्रम् अजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
सूर्यस्य चक्षू रजसैत्य् आवृतं तस्मिन्न् आर्पिता भुवनानि विश्वा ॥

1.164.15

साकंजानां सप्तथम् आहुर् एकजं षळ् इद् यमा ऋषयो देवजा इति ।
तेषाम् इष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः ॥

1.164.16

स्त्रियः सतीस् ताँ उ मे पुंस आहुः पश्यद् अक्षण्वान् न वि चेतद् अन्धः ।
कविर् यः पुत्रः स ईम् आ चिकेत यस् ता विजानात् स पितुष् पितासत् ॥

1.164.17

अवः परेण पर एनावरेण पदा वत्सम् बिभ्रती गौर् उद् अस्थात् ।
सा कद्रीची कं स्विद् अर्धम् परागात् क्व स्वित् सूते नहि यूथे अन्तः ॥

1.164.18

अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद् देवम् मनः कुतो अधि प्रजातम् ॥

1.164.19

ये अर्वाञ्चस् ताँ उ पराच आहुर् ये पराञ्चस् ताँ उ अर्वाच आहुः ।
इन्द्रश् च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥

1.164.20

द्वा सुपर्णा सयुजा सखाया समानं वृक्षम् परि षस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभि चाकशीति ॥

1.164.21

यत्रा सुपर्णा अमृतस्य भागम् अनिमेषं विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकम् अत्रा विवेश ॥

1.164.22

यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
तस्येद् आहुः पिप्पलं स्वाद्व् अग्रे तन् नोन् नशद् यः पितरं न वेद ॥

1.164.23

यद् गायत्रे अधि गायत्रम् आहितं त्रैष्टुभाद् वा त्रैष्टुभं निरतक्षत ।
यद् वा जगज् जगत्य् आहितम् पदं य इत् तद् विदुस् ते अमृतत्वम् आनशुः ॥

1.164.24

गायत्रेण प्रति मिमीते अर्कम् अर्केण साम त्रैष्टुभेन वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥

1.164.25

जगता सिन्धुं दिव्य् अस्तभायद् रथंतरे सूर्यम् पर्य् अपश्यत् ।
गायत्रस्य समिधस् तिस्र आहुस् ततो मह्ना प्र रिरिचे महित्वा ॥

1.164.26

उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् ।
श्रेष्ठं सवं सविता साविषन् नो ऽभीद्धो घर्मस् तद् उ षु प्र वोचम् ॥

1.164.27

हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इच्छन्ती मनसाभ्य् आगात् ।
दुहाम् अश्विभ्याम् पयो अघ्न्येयं सा वर्धताम् महते सौभगाय ॥

1.164.28

गौर् अमीमेद् अनु वत्सम् मिषन्तम् मूर्धानं हिङ्ङ् अकृणोन् मातवा उ ।
सृक्वाणं घर्मम् अभि वावशाना मिमाति मायुम् पयते पयोभिः ॥

1.164.29

अयं स शिङ्क्ते येन गौर् अभीवृता मिमाति मायुं ध्वसनाव् अधि श्रिता ।
सा चित्तिभिर् नि हि चकार मर्त्यं विद्युद् भवन्ती प्रति वव्रिम् औहत ॥

1.164.30

अनच् छये तुरगातु जीवम् एजद् ध्रुवम् मध्य आ पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिर् अमर्त्यो मर्त्येना सयोनिः ॥

1.164.31

अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् ।
स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ॥

1.164.32

य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुग् इन् नु तस्मात् ।
स मातुर् योना परिवीतो अन्तर् बहुप्रजा निरृतिम् आ विवेश ॥

1.164.33

द्यौर् मे पिता जनिता नाभिर् अत्र बन्धुर् मे माता पृथिवी महीयम् ।
उत्तानयोश् चम्वो3र् योनिर् अन्तर् अत्रा पिता दुहितुर् गर्भम् आधात् ॥

1.164.34

पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥

1.164.35

इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥

1.164.36

सप्तार्धगर्भा भुवनस्य रेतो विष्णोस् तिष्ठन्ति प्रदिशा विधर्मणि ।
ते धीतिभिर् मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥

1.164.37

न वि जानामि यद् इवेदम् अस्मि निण्यः संनद्धो मनसा चरामि ।
यदा मागन् प्रथमजा ऋतस्याद् इद् वाचो अश्नुवे भागम् अस्याः ॥

1.164.38

अपाङ् प्राङ् एति स्वधया गृभीतो ऽमर्त्यो मर्त्येना सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्य् अ1न्यं चिक्युर् न नि चिक्युर् अन्यम् ॥

1.164.39

ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तन् न वेद किम् ऋचा करिष्यति य इत् तद् विदुस् त इमे सम् आसते ॥

1.164.40

सूयवसाद् भगवती हि भूया अथो वयम् भगवन्तः स्याम ।
अद्धि तृणम् अघ्न्ये विश्वदानीम् पिब शुद्धम् उदकम् आचरन्ती ॥

1.164.41

गौरीर् मिमाय सलिलानि तक्षत्य् एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥

1.164.42

तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश् चतस्रः ।
ततः क्षरत्य् अक्षरं तद् विश्वम् उप जीवति ॥

1.164.43

शकमयं धूमम् आराद् अपश्यं विषूवता पर एनावरेण ।
उक्षाणम् पृश्निम् अपचन्त वीरास् तानि धर्माणि प्रथमान्य् आसन् ॥

1.164.44

त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
विश्वम् एको अभि चष्टे शचीभिर् ध्राजिर् एकस्य ददृशे न रूपम् ॥

1.164.45

चत्वारि वाक् परिमिता पदानि तानि विदुर् ब्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥

1.164.46

इन्द्रम् मित्रं वरुणम् अग्निम् आहुर् अथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा बहुधा वदन्त्य् अग्निं यमम् मातरिश्वानम् आहुः ॥

1.164.47

कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति ।
त आववृत्रन् सदनाद् ऋतस्याद् इद् घृतेन पृथिवी व्य् उद्यते ॥

1.164.48

द्वादश प्रधयश् चक्रम् एकं त्रीणि नभ्यानि क उ तच् चिकेत ।
तस्मिन् साकं त्रिशता न शङ्कवो ऽर्पिताः षष्टिर् न चलाचलासः ॥

1.164.49

यस् ते स्तनः शशयो यो मयोभूर् येन विश्वा पुष्यसि वार्याणि ।
यो रत्नधा वसुविद् यः सुदत्रः सरस्वति तम् इह धातवे कः ॥

1.164.50

यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

1.164.51

समानम् एतद् उदकम् उच् चैत्य् अव चाहभिः ।
भूमिम् पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य् अग्नयः ॥

1.164.52

दिव्यं सुपर्णं वायसम् बृहन्तम् अपां गर्भं दर्शतम् ओषधीनाम् ।
अभीपतो वृष्टिभिस् तर्पयन्तं सरस्वन्तम् अवसे जोहवीमि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc