भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.165

1.165.01

कया शुभा सवयसः सनीळाः समान्या मरुतः सम् मिमिक्षुः ।
कया मती कुत एतास एते ऽर्चन्ति शुष्मं वृषणो वसूया ॥

1.165.02

कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुत आ ववर्त ।
श्येनाँ इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥

1.165.03

कुतस् त्वम् इन्द्र माहिनः सन्न् एको यासि सत्पते किं त इत्था ।
सम् पृच्छसे समराणः शुभानैर् वोचेस् तन् नो हरिवो यत् ते अस्मे ॥

1.165.04

ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आ शासते प्रति हर्यन्त्य् उक्थेमा हरी वहतस् ता नो अच्छ ॥

1.165.05

अतो वयम् अन्तमेभिर् युजानाः स्वक्षत्रेभिस् तन्व1ः शुम्भमानाः ।
महोभिर् एताँ उप युज्महे न्व् इन्द्र स्वधाम् अनु हि नो बभूथ ॥

1.165.06

क्व1 स्या वो मरुतः स्वधासीद् यन् माम् एकं समधत्ताहिहत्ये ।
अहं ह्य् उ1ग्रस् तविषस् तुविष्मान् विश्वस्य शत्रोर् अनमं वधस्नैः ॥

1.165.07

भूरि चकर्थ युज्येभिर् अस्मे समानेभिर् वृषभ पौंस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद् वशाम ॥

1.165.08

वधीं वृत्रम् मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहम् एता मनवे विश्वश्चन्द्राः सुगा अपश् चकर वज्रबाहुः ॥

1.165.09

अनुत्तम् आ ते मघवन् नकिर् नु न त्वावाँ अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥

1.165.10

एकस्य चिन् मे विभ्व् अ1स्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा ।
अहं ह्य् उ1ग्रो मरुतो विदानो यानि च्यवम् इन्द्र इद् ईश एषाम् ॥

1.165.11

अमन्दन् मा मरुतः स्तोमो अत्र यन् मे नरः श्रुत्यम् ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस् तन्वे तनूभिः ॥

1.165.12

एवेद् एते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
संचक्ष्या मरुतश् चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥

1.165.13

को न्व् अत्र मरुतो मामहे वः प्र यातन सखीँर् अच्छा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषाम् भूत नवेदा म ऋतानाम् ॥

1.165.14

आ यद् दुवस्याद् दुवसे न कारुर् अस्माञ् चक्रे मान्यस्य मेधा ।
ओ षु वर्त्त मरुतो विप्रम् अच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥

1.165.15

एष वः स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc