भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.163

1.163.01

यद् अक्रन्दः प्रथमं जायमान उद्यन् समुद्राद् उत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥

1.163.02

यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् ।
गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥

1.163.03

असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त आहुस् ते त्रीणि दिवि बन्धनानि ॥

1.163.04

त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे ।
उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥

1.163.05

इमा ते वाजिन्न् अवमार्जनानीमा शफानां सनितुर् निधाना ।
अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥

1.163.06

आत्मानं ते मनसाराद् अजानाम् अवो दिवा पतयन्तम् पतंगम् ।
शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥

1.163.07

अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः ।
यदा ते मर्तो अनु भोगम् आनळ् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥

1.163.08

अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् ।
अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यं ते ॥

1.163.09

हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥

1.163.10

ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
हंसा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥

1.163.11

तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् ।
तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥

1.163.12

उप प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥

1.163.13

उप प्रागात् परमं यत् सधस्थम् अर्वाँ अच्छा पितरम् मातरं च ।
अद्या देवाञ् जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc