भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.162

1.162.01

मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥

1.162.02

यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति ।
सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥

1.162.03

एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत् पुरोळाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥

1.162.04

यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥

1.162.05

होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥

1.162.06

यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥

1.162.07

उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः ।
अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥

1.162.08

यद् वाजिनो दाम संदानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य ।
यद् वा घास्य प्रभृतम् आस्ये3 तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥

1.162.09

यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति ।
यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥

1.162.10

यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच् छमितारः कृण्वन्तूत मेधं शृतपाकम् पचन्तु ॥

1.162.11

यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति ।
मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥

1.162.12

ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति ।
ये चार्वतो मांसभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥

1.162.13

यन् नीक्षणम् माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥

1.162.14

निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः ।
यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥

1.162.15

मा त्वाग्निर् ध्वनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः ।
इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥

1.162.16

यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै ।
संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥

1.162.17

यत् ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥

1.162.18

चतुस्त्रिंशद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति ।
अच्छिद्रा गात्रा वयुना कृणोत परुष्-परुर् अनुघुष्या वि शस्त ॥

1.162.19

एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथ ऋतुः ।
या ते गात्राणाम् ऋतुथा कृणोमि ता-ता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥

1.162.20

मा त्वा तपत् प्रिय आत्मापियन्तम् मा स्वधितिस् तन्व1 आ तिष्ठिपत् ते ।
मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥

1.162.21

न वा उ एतन् म्रियसे न रिष्यसि देवाँ इद् एषि पथिभिः सुगेभिः ।
हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥

1.162.22

सुगव्यं नो वाजी स्वश्व्यम् पुंसः पुत्राँ उत विश्वापुषं रयिम् ।
अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc