ऋग्वेद · अध्याय 1.158
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणाव् अभिष्टौ ।
दस्रा ह यद् रेक्ण औचथ्यो वाम् प्र यत् सस्राथे अकवाभिर् ऊती ॥
को वां दाशत् सुमतये चिद् अस्यै वसू यद् धेथे नमसा पदे गोः ।
जिगृतम् अस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता ॥
युक्तो ह यद् वां तौग्र्याय पेरुर् वि मध्ये अर्णसो धायि पज्रः ।
उप वाम् अवः शरणं गमेयं शूरो नाज्म पतयद्भिर् एवैः ॥
उपस्तुतिर् औचथ्यम् उरुष्येन् मा माम् इमे पतत्रिणी वि दुग्धाम् ।
मा माम् एधो दशतयश् चितो धाक् प्र यद् वाम् बद्धस् त्मनि खादति क्षाम् ॥
न मा गरन् नद्यो मातृतमा दासा यद् ईं सुसमुब्धम् अवाधुः ।
शिरो यद् अस्य त्रैतनो वितक्षत् स्वयं दास उरो अंसाव् अपि ग्ध ॥
दीर्घतमा मामतेयो जुजुर्वान् दशमे युगे ।
अपाम् अर्थं यतीनाम् ब्रह्मा भवति सारथिः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0