भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.159

1.159.01

प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
देवेभिर् ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥

1.159.02

उत मन्ये पितुर् अद्रुहो मनो मातुर् महि स्वतवस् तद् धवीमभिः ।
सुरेतसा पितरा भूम चक्रतुर् उरु प्रजाया अमृतं वरीमभिः ॥

1.159.03

ते सूनवः स्वपसः सुदंससो मही जज्ञुर् मातरा पूर्वचित्तये ।
स्थातुश् च सत्यं जगतश् च धर्मणि पुत्रस्य पाथः पदम् अद्वयाविनः ॥

1.159.04

ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
नव्यं-नव्यं तन्तुम् आ तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥

1.159.05

तद् राधो अद्य सवितुर् वरेण्यं वयं देवस्य प्रसवे मनामहे ।
अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc