ऋग्वेद · अध्याय 1.157
अबोध्य् अग्निर् ज्म उद् एति सूर्यो व्य् उ1षाश् चन्द्रा मह्य् आवो अर्चिषा ।
आयुक्षाताम् अश्विना यातवे रथम् प्रासावीद् देवः सविता जगत् पृथक् ॥
यद् युञ्जाथे वृषणम् अश्विना रथं घृतेन नो मधुना क्षत्रम् उक्षतम् ।
अस्माकम् ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
अर्वाङ् त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर् यातु सुष्टुतः ।
त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद् द्विपदे चतुष्पदे ॥
आ न ऊर्जं वहतम् अश्विना युवम् मधुमत्या नः कशया मिमिक्षतम् ।
प्रायुस् तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्व् अन्तः ।
युवम् अग्निं च वृषणाव् अपश् च वनस्पतीँर् अश्विनाव् ऐरयेथाम् ॥
युवं ह स्थो भिषजा भेषजेभिर् अथो ह स्थो रथ्या3 राथ्येभिः ।
अथो ह क्षत्रम् अधि धत्थ उग्रा यो वां हविष्मान् मनसा ददाश ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0