ऋग्वेद · अध्याय 1.152
युवं वस्त्राणि पीवसा वसाथे युवोर् अच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतम् अनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
एतच् चन त्वो वि चिकेतद् एषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
त्रिरश्रिं हन्ति चतुरश्रिर् उग्रो देवनिदो ह प्रथमा अजूर्यन् ॥
अपाद् एति प्रथमा पद्वतीनां कस् तद् वाम् मित्रावरुणा चिकेत ।
गर्भो भारम् भरत्य् आ चिद् अस्य ऋतम् पिपर्त्य् अनृतं नि तारीत् ॥
प्रयन्तम् इत् परि जारं कनीनाम् पश्यामसि नोपनिपद्यमानम् ।
अनवपृग्णा वितता वसानम् प्रियम् मित्रस्य वरुणस्य धाम ॥
अनश्वो जातो अनभीशुर् अर्वा कनिक्रदत् पतयद् ऊर्ध्वसानुः ।
अचित्तम् ब्रह्म जुजुषुर् युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥
आ धेनवो मामतेयम् अवन्तीर् ब्रह्मप्रियम् पीपयन् सस्मिन्न् ऊधन् ।
पित्वो भिक्षेत वयुनानि विद्वान् आसाविवासन्न् अदितिम् उरुष्येत् ॥
आ वाम् मित्रावरुणा हव्यजुष्टिं नमसा देवाव् अवसा ववृत्याम् ।
अस्माकम् ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर् दिव्या सुपारा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0