ऋग्वेद · अध्याय 1.153
यजामहे वाम् महः सजोषा हव्येभिर् मित्रावरुणा नमोभिः ।
घृतैर् घृतस्नू अध यद् वाम् अस्मे अध्वर्यवो न धीतिभिर् भरन्ति ॥
प्रस्तुतिर् वां धाम न प्रयुक्तिर् अयामि मित्रावरुणा सुवृक्तिः ।
अनक्ति यद् वां विदथेषु होता सुम्नं वां सूरिर् वृषणाव् इयक्षन् ॥
पीपाय धेनुर् अदितिर् ऋताय जनाय मित्रावरुणा हविर्दे ।
हिनोति यद् वां विदथे सपर्यन् स रातहव्यो मानुषो न होता ॥
उत वां विक्षु मद्यास्व् अन्धो गाव आपश् च पीपयन्त देवीः ।
उतो नो अस्य पूर्व्यः पतिर् दन् वीतम् पातम् पयस उस्रियायाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0