भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 1.151

1.151.01

मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषाम् अवः ॥

1.151.02

यद् ध त्यद् वाम् पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
अध क्रतुं विदतं गातुम् अर्चत उत श्रुतं वृषणा पस्त्यावतः ॥

1.151.03

आ वाम् भूषन् क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
यद् ईम् ऋताय भरथो यद् अर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥

1.151.04

प्र सा क्षितिर् असुर या महि प्रिय ऋतावानाव् ऋतम् आ घोषथो बृहत् ।
युवं दिवो बृहतो दक्षम् आभुवं गां न धुर्य् उप युञ्जाथे अपः ॥

1.151.05

मही अत्र महिना वारम् ऋण्वथो ऽरेणवस् तुज आ सद्मन् धेनवः ।
स्वरन्ति ता उपरताति सूर्यम् आ निम्रुच उषसस् तक्ववीर् इव ॥

1.151.06

आ वाम् ऋताय केशिनीर् अनूषत मित्र यत्र वरुण गातुम् अर्चथः ।
अव त्मना सृजतम् पिन्वतं धियो युवं विप्रस्य मन्मनाम् इरज्यथः ॥

1.151.07

यो वां यज्ञैः शशमानो ह दाशति कविर् होता यजति मन्मसाधनः ।
उपाह तं गच्छथो वीथो अध्वरम् अच्छा गिरः सुमतिं गन्तम् अस्मयू ॥

1.151.08

युवां यज्ञैः प्रथमा गोभिर् अञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
भरन्ति वाम् मन्मना संयता गिरो ऽदृप्यता मनसा रेवद् आशाथे ॥

1.151.09

रेवद् वयो दधाथे रेवद् आशाथे नरा मायाभिर् इतऊति माहिनम् ।
न वां द्यावो ऽहभिर् नोत सिन्धवो न देवत्वम् पणयो नानशुर् मघम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc